1. आवाहनम् एवं प्रतिष्ठापनम्
-
आवाहनम्
सर्वप्रथम निम्नलिखित मन्त्र पढ़ते हुये भगवान गणेश की प्रतिमा के सम्मुख आवाहन-मुद्रा प्रदर्शित करके उनका आवाहन करें।
- हे हेरम्ब! त्वमेह्येहि ह्यम्बिकात्र्यम्बकात्मज।
सिद्धिबुद्धिपते त्र्यक्ष लक्षलाभपितुः पितः॥
नागास्यं नागहारं त्वां गणराजं चतुर्भुजम्।
भूषितं स्वायुधैर्दिव्यैः पाशाङ्कुशपरस्वधैः॥ -
प्रतिष्ठापनम्
आवाहन के पश्चात् निम्नलिखित मन्त्र पढ़ते हुये भगवान गणेश की मूर्ति में प्राण-प्रतिष्ठा करें।
-
अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणा क्षरन्तु च।
अस्यै देवत्वमर्चायै मामहेति च कश्चन॥ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः।
सुप्रतिष्ठो वरदो भव॥ -
विचित्ररत्नखचितं दिव्यास्तरणसंयुतम्।
स्वर्णसिंहासनं चारु गृहाण गुहाग्रज॥
ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः।
आसनं समर्पयामि॥ -
ॐ सर्वतीर्थसमुद्भूतं पाद्यं गन्धादिभिर्युतम्।
गजानन गृहाणेदं भगवान् भक्तवत्सलः॥ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः।
पादयोः पाद्यं समर्पयामि॥ -
ॐ गणाध्यक्ष नमस्तेऽस्तु गृहाण करुणाकर।
अर्घ्यं च फलसंयुक्तं गन्धमाल्याक्षतैर्युतम्॥
ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः।
हस्तयोरर्घ्यं समर्पयामि॥ -
विघ्नराज नमस्तुभ्यं त्रिदशैरभिवन्दित।
गङ्गोदकेन देवेश कुरुष्वाचमनं प्रभो॥ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः।
मुखे आचमनीयं समर्पयामि॥ -
मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम्।
तदिदं कल्पितं देव स्नानार्थं प्रतिगृह्यताम्॥ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः।
सर्वाङ्गस्नानं समर्पयामि॥ - ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः।
पञ्चामृत-स्नानं समर्पयामि॥
Reviews
There are no reviews yet.