ॐ गणाध्यक्ष नमस्तेऽस्तु गृहाण करुणाकर।
अर्घ्यं च फलसंयुक्तं गन्धमाल्याक्षतैर्युतम्॥
ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः।
हस्तयोरर्घ्यं समर्पयामि॥
विघ्नराज नमस्तुभ्यं त्रिदशैरभिवन्दित।
गङ्गोदकेन देवेश कुरुष्वाचमनं प्रभो॥
ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः।
मुखे आचमनीयं समर्पयामि॥
मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम्।
तदिदं कल्पितं देव स्नानार्थं प्रतिगृह्यताम्॥
ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः।
सर्वाङ्गस्नानं समर्पयामि॥
पञ्चामृतं मयाऽऽनीतं पयो दधि घृतं मधु।
शर्करा च समायुक्तं स्नानार्थं प्रतिगृह्यताम्॥
ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः।
पञ्चामृत-स्नानं समर्पयामि॥
कामधेनुसमुद्भूतं सर्वेषां जीवनं परम्।
तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम्॥
ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः।
पयः-स्नानं समर्पयामि॥
Reviews
There are no reviews yet.